वांछित मन्त्र चुनें

अध॑ द्र॒प्सो अं॑शु॒मत्या॑ उ॒पस्थेऽधा॑रयत्त॒न्वं॑ तित्विषा॒णः । विशो॒ अदे॑वीर॒भ्या॒३॒॑चर॑न्ती॒र्बृह॒स्पति॑ना यु॒जेन्द्र॑: ससाहे ॥

अंग्रेज़ी लिप्यंतरण

adha drapso aṁśumatyā upasthe dhārayat tanvaṁ titviṣāṇaḥ | viśo adevīr abhy ācarantīr bṛhaspatinā yujendraḥ sasāhe ||

पद पाठ

अध॑ । द्र॒प्सः । अं॒शु॒ऽमत्याः॑ । उ॒पऽस्थे॑ । अधा॑रयत् । त॒न्व॑म् । ति॒त्वि॒षा॒णः । विशः॑ । अदे॑वीः । अ॒भि । आ॒ऽचर॑न्तीः । बृह॒स्पति॑ना । यु॒जा । इन्द्रः॑ । स॒स॒हे॒ ॥ ८.९६.१५

ऋग्वेद » मण्डल:8» सूक्त:96» मन्त्र:15 | अष्टक:6» अध्याय:6» वर्ग:34» मन्त्र:5 | मण्डल:8» अनुवाक:10» मन्त्र:15